प्राकृत धर्मानाश्रयम प्राकृत निखिल धर्म रूपमिति । निगम प्रतिपाद्यमं यत्तच्छुद्धं साकृत सतौमि ॥१॥
कलिकाल तमश्छन्न दृष्टित्वा द्विदुषामपि । संप्रत्य विषयस्तस्य माहात्म्यं समभूदभुवि॥२॥
दयया निज माहात्म्यं करिष्यन्प्रकटं हरिः । वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥३॥
तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा । तन्नामाष्टोरतरशतं प्रवक्ष्याम्यखिलाघहृत ॥४॥
ऋषिरग्नि कुमारस्तु नाम्नां छ्न्दो जगत्यसौ । श्री कृश्णास्यं देवता च बीजं कारुणिकः प्रभुः ॥५॥
विनियोगो भक्तियोग प्रतिबंध विनाशने । कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः ॥६॥
आनंदः परमानंदः श्रीकृष्णस्यं कृपानिधिः । दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः ॥७॥
श्री भागवत गूढार्थ प्रकाशन परायणः । साकार ब्रह्मवादैक स्थापको वेदपारगः ॥८॥
मायावाद निराकर्ता सर्ववाद निरासकृत । भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्राद्युदधृतिक्षमः ॥९॥
अंगीकृतयैव गोपीशवल्लभीकृतमानवः । अंगीकृतौ समर्यादो महाकारुणिको विभुः ॥१०॥
अदेयदानदक्षश्च महोदारचरित्रवान । प्राकृतानुकृतिव्याज मोहितासुर मानुषः ॥११॥
वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम । जनशिक्षाकृते कृष्ण भक्तिकृन्न खिलेष्टदः ॥१२॥
सर्वलक्षण सम्पन्नः श्रीकृष्णज्ञानदो गुरुः । स्वानन्दतुन्दिलः पद्मदलायतविलोचनः ॥१३॥
कृपादृग्वृष्टिसंहृष्ट दासदासी प्रियः पतिः । रोषदृक्पात संप्लुष्टभक्तद्विड भक्त सेवितः ॥१४॥
सुखसेव्यो दुराराध्यो दुर्लभांध्रिसरोरुहः । उग्रप्रतापो वाक्सीधु पूरिता शेषसेवकः ॥१५॥
श्री भागवत पीयूष समुद्र मथनक्षमः । तत्सारभूत रासस्त्री भाव पूरित विग्रहः ॥१६॥
सान्निध्यम्मात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः । रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः ॥१७॥
विरहानुभवैकार्थसर्वत्यागोपदेशकः । भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः॥१८॥
यागादौ भक्तिमार्गैक साधनत्वोपदेशकः । पूर्णानन्दः पूर्ण्कामो वाक्पतिर्विबुधेश्वरः ॥१९॥
कृष्णनामसहस्त्रस्य वक्ता भक्तपरायणः । भक्त्याचारोपदेशार्थ नानावाक्य निरूपकः ॥२०॥
स्वार्थो ज्झिताखिलप्राणप्रियस्तादृशवेष्टितः । स्वदासार्थ कृताशेष साधनः सर्वशक्तिधॄक ॥२१॥
भुवि भक्ति प्रचारैककृते स्वान्वयकृत्पिता । स्ववंशे स्थापिताशेष स्वमहात्म्यः स्मयापहः ॥२२॥
पतिव्रतापतिः पारलौकिकैहिक दानकृत । निगूढहृदयो नन्य भक्तेषु ज्ञापिताशयः ॥२३॥
उपासनादिमार्गाति मुग्ध मोह निवारकः । भक्तिमार्गे सर्वमार्ग वैलक्षण्यानुभूतिकृत ॥२४॥
पृथक्शरण मार्गोपदेष्टा श्रीकृष्णहार्दवित । प्रतिक्षण निकुंज स्थलीला रस सुपूरितः ॥२५॥
तत्कथाक्षिप्तचितस्त द्विस्मृतन्यो व्रजप्रियः । प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहः प्रियः ॥२६॥
भक्तेच्छापूरकः सर्वाज्ञात लीलोतिमोहनः। सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ॥२७॥
स्वयशोगानसंहऋष्ठऋदयाम्भोजविष्टरः । यशः पीयूष्लहरीप्लावितान्यरसः परः ॥२८॥
लीलामृतरसार्द्रार्द्रीकृताखिलशरीरभृत । गोवर्धनस्थित्युत्साहल्लीला प्रेमपूरितः ॥२९॥
यज्ञभोक्ता यज्ञकर्ता चतुर्वर्ग विशारदः । सत्यप्रतिज्ञस्त्रिगुणोतीतो नयविशारदः ॥३०॥
स्वकीर्तिवर्द्धनस्तत्व सूत्रभाष्यप्रदर्शकः । मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः ॥३१॥
अप्राकृताखिलाकल्प भूषितः सहजस्मितः । त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः ॥३२॥
अशेषभक्त संप्रार्थ्य चरणाब्ज रजोधनः । इत्यानंद निधेः प्रोक्तां नाम्नामष्टोत्तरं शतम ॥३३॥
श्रृद्धाविशुद्ध बुद्धिर्यः पठत्यनुदिनं जनः । स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम ॥३४॥
तदप्राप्तौ वृथा मोक्ष स्तदप्तौतदगतार्थता । अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्ण रसार्थिभिः ॥३५॥
॥ इति श्रीमदग्निकुमारप्रोक्तं श्री सर्वोत्तमस्तोत्रं सम्पूर्णम ॥